|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.166. अध्यायः 166
Mahabharata - Drona Parva - Chapter Topics
कृतवर्मणा युधिष्ठिरपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-166-0x(4715)(52525)
वर्तमाने तदा रौद्रे रात्रियुद्धे विशाम्पते।
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः॥ 7-166-1(52526)
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्चैव सोमकान्।
अभिद्रवत संयात द्रोणमेव जिघांसया॥ 7-166-2(52527)
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सृञ्जयास्तथा।
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्॥ 7-166-3(52528)
तान्वयं प्रतिगर्जन्तः प्रत्युद्याताः स्म हर्षिताः।
यथाशक्ति यथोत्साहं यथासत्वं च संयुगे॥ 7-166-4(52529)
कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत्।
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम्॥ 7-166-5(52530)
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः।
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि॥ 7-166-6(52531)
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्।
कर्णो वैकर्तनो राजन्वारयामास पाण़्डवम्॥ 7-166-7(52532)
भीमसेनमथायान्तं व्यादितास्यामिवान्तकम्।
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत्॥ 7-166-8(52533)
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्।
शकुनिः सौबलो राजन्वारयामास सत्वरः॥ 7-166-9(52534)
शिखण्डिनमथायान्तं रथेन रथिनां वरम्।
कृपः शारद्वतो राजन्वारयामास संयुगे॥ 7-166-10(52535)
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः।
दुःशासनो महाराज यत्तो यत्तमवारयत्॥ 7-166-11(52536)
भैमसेनिमथायान्तं मायाशतविशारदम्।
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत्॥ 7-166-12(52537)
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्।
वारयामास समरे द्रोणप्रेप्सुं महारथम्॥ 7-166-13(52538)
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति।
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत॥ 7-166-14(52539)
शतानीकमथायान्तं नाकुलिं रभसं रणे।
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया॥ 7-166-15(52540)
अर्जुनं च युधांश्रेष्ठं प्राद्रवन्तं महारथम्।
अलायुधो महाराज राक्षसेन्द्रो न्यवारयत्॥ 7-166-16(52541)
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे।
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्॥ 7-166-17(52542)
तथाऽन्यान्पाण्डुपुत्राणां समायातान्महारथान्।
तावका रथिनो राजन्वारयामासुरोजसा॥ 7-166-18(52543)
गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे।
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः॥ 7-166-19(52544)
निशीथे तुरगा राजन्द्रावयन्तः परस्परम्।
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः॥ 7-166-20(52545)
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः।
समागच्छन्महाराज विनदन्तः पृथक्पृथक्॥ 7-166-21(52546)
नरास्तु बहवस्तत्र समाजग्मुः परस्परम्।
गादाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे॥ 7-166-22(52547)
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्।
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम्॥ 7-166-23(52548)
युधिष्ठिरस्तु हार्दिक्यं विद्व्वा पञ्चभिराशुगैः।
पुनर्विव्याध विंशत्या तिष्ठतिष्ठेति चाब्रवीत्॥ 7-166-24(52549)
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥ 7-166-25(52550)
अथान्यद्धनुरादाय धर्मपुत्रो महारथः।
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ 7-166-26(52551)
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष।
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः॥ 7-166-27(52552)
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च।
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्छिलाशितान्॥ 7-166-28(52553)
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्।
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः॥ 7-166-29(52554)
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्।
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः॥ 7-166-30(52555)
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्।
चिक्षेप भरश्रेष्ठ रथे न्यस्य महद्धनुः॥ 7-166-31(52556)
सा हेमचित्रा महती पाण्डवेयेन प्रेरिता।
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्॥ 7-166-32(52557)
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः।
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः॥ 7-166-33(52558)
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी।
व्यश्चसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्॥ 7-166-34(52559)
ततस्तु पाण्डवो ज्येष्ठः खङ्गं चर्म समाददे।
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे॥ 7-166-35(52560)
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्।
प्रैषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः॥ 7-166-36(52561)
तमापतन्तं सहसा धर्मराजभुजच्युतम्।
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव॥ 7-166-37(52562)
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्।
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत्॥ 7-166-38(52563)
हार्दिक्यशरसञ्छन्नं कवचं तन्महाधनम्।
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्॥ 7-166-39(52564)
स च्छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः।
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः॥ 7-166-40(52565)
कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम्।
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः॥ ॥ 7-166-41(52566)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्षष्ट्यधिकशततमोऽध्यायः॥ 166 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-166-12 भैमसेनिं घटोत्कचम्॥ 5-166-27 माधवः कृतवर्मा॥ 5-166-166 षट्षष्ठ्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|